उशीर
Ushira
Marathi :काळा वाळा
Hindi :खस, काला बाला
Gujarati :ખસ
×
पाचनं स्तम्भनं हन्ति दोषदाहमदज्वरान् । तृष्णास्रविषदौर्गन्ध्यकृच्छ्रकुष्ठवमिव्रणान् ॥
कैयदेवनिघण्टु-ओषधिवर्ग 1370
उशीरः पाचनः शीतः सुगन्धस्तिक्तकः स्मृतः । मधुरः स्तम्भनो रुक्षो लघुर्दाहश्रमापहः ॥ पित्तज्वरतृषारक्तदोषच्छर्दिविषापहः । पित्तं कफं च दौर्गन्ध्यं मूत्रकृच्छ्रं ज्वरं जयेत् ॥ कृष्ठं मदं विसर्पं च व्रणं चैव विनाशयेत् ।
निघण्टरत्नाकर-गुणदोषप्रकरण p. 175
स्यात्तिक्तं ग्राह्युशीरं लघु हिममधुरं छर्दितृष्णास्रकृच्छ्रे मांसी शीता कषाया द्युतिमतिबलदा दोषवीसर्पकुष्ठे । शैलेयं शीतहृद्यं कफदवथुविषास्राश्मरीकुष्ठकष्टे मुस्ता संबद्धविट्का कृमिकफपवनारोचतृष्णाज्वरास्रे ॥
सिद्धभेषजमणिमाला-सुगन्धिवर्ग 118